पार्वत्युवाच — पार्वती ने कहा Pārvatī said
य एष भैरवो नाम आपदुद्धारको मतः ॥
त्वया च कथितो देव भैरवः कल्प उत्तमः ॥
तस्य नामसहस्राणि प्रयुतान्यर्बुदानि च ॥ २ ॥
ya eṣa bhairavo nāma āpaduddhārako mataḥ
tvayā ca kathito deva bhairavaḥ kalpa uttamaḥ
tasya nāmasahasrāṇi prayutānyarbudāni ca
यः एषः भैरवः नामआपत्-उद्धारकः मतःत्वया च कथितः देवभैरवः कल्पः उत्तमःतस्य नाम-सहस्राणिप्रयुतानि अर्बुदानि च
हिन्दी अर्थ
यह जो भैरव कहलाता है, आपत्ति से उबारने वाला माना गया — हे देव, आपने उसका उत्तम कल्प कहा। उसके नाम सहस्रों, लाखों और करोड़ों हैं;
English sense
This one called Bhairava, held to be the lifter from calamity — you told his excellent kalpa, O god. His names are thousands, millions and hundreds of millions;
पदार्थ · word by word
यः एषः भैरवः नाम
he who is called Bhairavaजो भैरव नाम से
आपत्-उद्धारकः मतः
held to be the lifter from calamityआपत्ति से उबारने वाला माना गया
त्वया च कथितः देव
and told by you, O godऔर आपने कहा, हे देव
भैरवः कल्पः उत्तमः
the excellent kalpa of Bhairavaभैरव का उत्तम कल्प
तस्य नाम-सहस्राणि
his thousands of namesउसके सहस्रों नाम
प्रयुतानि अर्बुदानि च
millions and hundreds of millionsलाखों और करोड़ों